Sukta 10.55
युजा कर्माणि जनयन्विश्वौजा अशस्तिहा विश्वमनास्तुराषाट् । पीत्वी सोमस्य दिव आ वृधानः शूरो निर्युधाधमद्दस्यून् ॥
यु॒जा कर्मा॑णि ज॒नय॑न्वि॒श्वौजा॑ अशस्ति॒हा वि॒श्वम॑नास्तुरा॒षाट् । पी॒त्वी सोम॑स्य दि॒व आ वृ॑धा॒नः शूरो॒ निर्यु॒धाध॑म॒द्दस्यू॑न् ॥
yujā́ kármāṇi janáyan viśvā́ojā aśastihā́ viśvámanās turāṣā́ṭ | pītvī́ sómasya divá ā́ vṛdhānáḥ śū́ro nír yúdhā ádhamad dasyū́n ||
Yoked to the Work, generating the deeds with universal power—slayer of the unlit blame, all-minded, victorious in the onset—having drunk the Soma of heaven and grown in that height, the Hero drove out the Dasyus by battle.
यु॒जा । कर्मा॑णि । ज॒नय॑न् । वि॒श्वाऽओ॑जाः । अ॒श॒स्ति॒ऽहा । वि॒श्वऽम॑नाः । तु॒रा॒षाट् । पी॒त्वी । सोम॑स्य । दि॒वः । आ । वृ॒धा॒नः । शूरः॑ । निः । यु॒धा । अ॒ध॒म॒त् । दस्यू॑न् ॥युजा । कर्माणि । जनयन् । विश्वाओजाः । अशस्तिहा । विश्वमनाः । तुराषाट् । पीत्वी । सोमस्य । दिवः । आ । वृधानः । शूरः । निः । युधा । अधमत् । दस्यून् ॥yujā | karmāṇi | janayan | viśvāojāḥ | aśasti-hā | viśva-manāḥ | turāṣāṭ | pītvī | somasya | divaḥ | ā | vṛdhānaḥ | śūraḥ | niḥ | yudhā | adhamat | dasyūn