Sukta 10.54
यो अदधाज्ज्योतिषि ज्योतिरन्तर्यो असृजन्मधुना सं मधूनि । अध प्रियं शूषमिन्द्राय मन्म ब्रह्मकृतो बृहदुक्थादवाचि ॥
यो अद॑धा॒ज्ज्योति॑षि॒ ज्योति॑र॒न्तर्यो असृ॑ज॒न्मधु॑ना॒ सं मधू॑नि । अध॑ प्रि॒यं शू॒षमिन्द्रा॑य॒ मन्म॑ ब्रह्म॒कृतो॑ बृ॒हदु॑क्थादवाचि ॥
yó adadhāj jyótiṣi jyótir antár yó asṛ́jan mádhunā sáṃ mádhūni | ádha priyáṃ śū́ṣam índrāya mánma brahma-kṛ́to bṛhád-ukthād avāci ||
He who set light within the light, he who with sweetness joined sweetnesses—then a dear and puissant thought for Indra has been uttered from the wide hymn of the maker of the brahman.
यः । अद॑धात् । ज्योति॑षि । ज्योतिः॑ । अ॒न्तः । यः । असृ॑जत् । मधु॑ना । सम् । मधू॑नि । अध॑ । प्रि॒यम् । शू॒षम् । इन्द्रा॑य । मन्म॑ । ब्र॒ह्म॒ऽकृतः॑ । बृ॒हत्ऽउ॑क्थात् । अ॒वा॒चि॒ ॥यः । अदधात् । ज्योतिषि । ज्योतिः । अन्तः । यः । असृजत् । मधुना । सम् । मधूनि । अध । प्रियम् । शूषम् । इन्द्राय । मन्म । ब्रह्मकृतः । बृहत्उक्थात् । अवाचि ॥yaḥ | adadhāt | jyotiṣi | jyotiḥ | antaḥ | yaḥ | asṛjat | madhunā | sam | madhūni | adha | priyam | śūṣam | indrāya | manma | brahma-kṛtaḥ | bṛhat-ukthāt | avāci