Sukta 10.54
त्वं विश्वा दधिषे केवलानि यान्याविर्या च गुहा वसूनि । काममिन्मे मघवन्मा वि तारीस्त्वमाज्ञाता त्वमिन्द्रासि दाता ॥
त्वं विश्वा॑ दधिषे॒ केव॑लानि॒ यान्या॒विर्या च॒ गुहा॒ वसू॑नि । काम॒मिन्मे॑ मघव॒न्मा वि ता॑री॒स्त्वमा॑ज्ञा॒ता त्वमि॑न्द्रासि दा॒ता ॥
tváṃ víśvā dadhiṣe kévalāni yā́ny āvír yā́ ca gúhā vásūni | kā́mam ín me maghavan mā́ ví tā́rīs tvám ājñātā́ tvám indrāsi dātā́ ||
You hold all things in your sole possession—treasures that are open and treasures that are hidden. O Maghavan, do not frustrate my soul’s aspiration; you are the knower, you, O Indra, are the giver.
त्वम् । विश्वा॑ । द॒धि॒षे॒ । केव॑लानि । यानि॑ । आ॒विः । या । च॒ । गुहा॑ । वसू॑नि । काम॑म् । इत् । मे॒ । म॒घ॒ऽव॒न् । मा । वि । ता॒रीः॒ । त्वम् । आ॒ऽज्ञा॒ता । त्वम् । इ॒न्द्र॒ । अ॒सि॒ । दा॒ता ॥त्वम् । विश्वा । दधिषे । केवलानि । यानि । आविः । या । च । गुहा । वसूनि । कामम् । इत् । मे । मघवन् । मा । वि । तारीः । त्वम् । आज्ञाता । त्वम् । इन्द्र । असि । दाता ॥tvam | viśvā | dadhiṣe | kevalāni | yāni | āviḥ | yā | ca | guhā | vasūni | kāmam | it | me | magha-van | mā | vi | tārīḥ | tvam | ājñātā | tvam | indra | asi | dātā