Sukta 10.53
त्वष्टा माया वेदपसामपस्तमो बिभ्रत्पात्रा देवपानानि शंतमा । शिशीते नूनं परशुं स्वायसं येन वृश्चादेतशो ब्रह्मणस्पतिः ॥
त्वष्टा॑ मा॒या वे॑द॒पसा॑म॒पस्त॑मो॒ बिभ्र॒त्पात्रा॑ देव॒पाना॑नि॒ शंत॑मा । शिशी॑ते नू॒नं प॑र॒शुं स्वा॑य॒सं येन॑ वृ॒श्चादेत॑शो॒ ब्रह्म॑ण॒स्पति॑: ॥
tváṣṭā māyā́ veda apásām apás-tamo bíbhrat pā́trā deva-pā́nāni śáṃ-tamā | śíśīte nūnáṃ paraśúṃ svāyásam yéna vṛścā́d étaśo bráhmaṇas pátiḥ ||
Tvaṣṭṛ knows the powers of formation, most skilled among the works, bearing the vessels of the gods’ drink, supremely peace-giving. Now he sharpens the iron axe by which Brahmaṇaspati may cut away the tawny obstruction.
त्वष्टा॑ । मा॒या । वे॒त् । अ॒पसा॑म् । अ॒पःऽत॑मः । बिभ्र॑त् । पात्रा॑ । दे॒व॒ऽपाना॑नि । शम्ऽत॑मा । शिशी॑ते । नू॒नम् । प॒र॒शुम् । सु॒ऽआ॒य॒सम् । येन॑ । वृ॒श्चात् । एत॑शः । ब्रह्म॑णः । पतिः॑ ॥त्वष्टा । माया । वेत् । अपसाम् । अपःतमः । बिभ्रत् । पात्रा । देवपानानि । शम्तमा । शिशीते । नूनम् । परशुम् । सुआयसम् । येन । वृश्चात् । एतशः । ब्रह्मणः । पतिः ॥tvaṣṭā | māyā | vet | apasām | apaḥ-tamaḥ | bibhrat | pātrā | deva-pānāni | śam-tamā | śiśīte | nūnam | paraśum | su-āyasam | yena | vṛścāt | etaśaḥ | brahmaṇaḥ | patiḥ