Sukta 10.53
अश्मन्वती रीयते सं रभध्वमुत्तिष्ठत प्र तरता सखायः । अत्रा जहाम ये असन्नशेवाः शिवान्वयमुत्तरेमाभि वाजान् ॥
अश्म॑न्वती रीयते॒ सं र॑भध्व॒मुत्ति॑ष्ठत॒ प्र त॑रता सखायः । अत्रा॑ जहाम॒ ये अस॒न्नशे॑वाः शि॒वान्व॒यमुत्त॑रेमा॒भि वाजा॑न् ॥
áśmanvatī rī́yate sáṃ rabhadhvam úttiṣṭhata prá taratā sakhāyaḥ | átrā jahāma yé ásann áśevāḥ śivā́n vayám úttaremābhí vā́jān ||
The stony river is rushing—grasp together; arise and cross beyond, O comrades. Here let us leave behind those who were unhelpful; may we cross upward into the auspicious, toward plenitudes of force.
अश्म॑न्ऽवती । री॒य॒ते॒ । सम् । र॒भ॒ध्व॒म् । उत् । ति॒ष्ठ॒त॒ । प्र । त॒र॒त॒ । स॒खा॒यः॒ । अत्र॑ । ज॒हा॒म॒ । ये । अस॑न् । अशे॑वाः । शि॒वान् । व॒यम् । उत् । त॒रे॒म॒ । अ॒भि । वाजा॑न् ॥अश्मन्वती । रीयते । सम् । रभध्वम् । उत् । तिष्ठत । प्र । तरत । सखायः । अत्र । जहाम । ये । असन् । अशेवाः । शिवान् । वयम् । उत् । तरेम । अभि । वाजान् ॥aśman-vatī | rīyate | sam | rabhadhvam | ut | tiṣṭhata | pra | tarata | sakhāyaḥ | atra | jahāma | ye | asan | aśevāḥ | śivān | vayam | ut | tarema | abhi | vājān