Sukta 10.53
सतो नूनं कवयः सं शिशीत वाशीभिर्याभिरमृताय तक्षथ । विद्वांसः पदा गुह्यानि कर्तन येन देवासो अमृतत्वमानशुः ॥
स॒तो नू॒नं क॑वय॒: सं शि॑शीत॒ वाशी॑भि॒र्याभि॑र॒मृता॑य॒ तक्ष॑थ । वि॒द्वांस॑: प॒दा गुह्या॑नि कर्तन॒ येन॑ दे॒वासो॑ अमृत॒त्वमा॑न॒शुः ॥
sató nūnáṃ kaváyaḥ sáṃ śiśīta vā́śībhiḥ yā́bhir amṛ́tāya tákṣatha | vidvā́ṃsaḥ padā́ guhyā́ni kartana yéna devā́so amṛtatvám ā́naśuḥ ||
Now the seers sharpen the powers of the Real with the utterances by which you fashion for immortality. Knowing ones cut open the hidden things by the steps, by which the gods attained immortality.
स॒तः । नू॒नम् । क॒व॒यः॒ । सम् । शि॒शी॒त॒ । वाशी॑भिः । याभिः॑ । अ॒मृता॑य । तक्ष॑थ । वि॒द्वांसः॑ । प॒दा । गुह्या॑नि । क॒र्त॒न॒ । येन॑ । दे॒वासः॑ । अ॒मृ॒त॒ऽत्वम् । आ॒न॒शुः ॥सतः । नूनम् । कवयः । सम् । शिशीत । वाशीभिः । याभिः । अमृताय । तक्षथ । विद्वांसः । पदा । गुह्यानि । कर्तन । येन । देवासः । अमृतत्वम् । आनशुः ॥sataḥ | nūnam | kavayaḥ | sam | śiśīta | vāśībhiḥ | yābhiḥ | amṛtāya | takṣatha | vidvāṃsaḥ | padā | guhyāni | kartana | yena | devāsaḥ | amṛta-tvam | ānaśuḥ