Sukta 10.53
अक्षानहो नह्यतनोत सोम्या इष्कृणुध्वं रशना ओत पिंशत । अष्टावन्धुरं वहताभितो रथं येन देवासो अनयन्नभि प्रियम् ॥
अ॒क्षा॒नहो॑ नह्यतनो॒त सो॑म्या॒ इष्कृ॑णुध्वं रश॒ना ओत पिं॑शत । अ॒ष्टाव॑न्धुरं वहता॒भितो॒ रथं॒ येन॑ दे॒वासो॒ अन॑यन्न॒भि प्रि॒यम् ॥
akṣānaho nahyatana utá somyā́ iṣkṛṇudhvaṃ raśanā́ óta piṃśata | aṣṭā́vandhuraṃ vahatābhíto ráthaṃ yéna devā́so anáyann abhí priyám ||
Bind on the axle-yokes, O soma-joyful ones; fit the reins and smooth them well. Drive forth on every side the chariot with eight supports, by which the gods were led toward the Beloved.
अ॒क्ष॒ऽनहः॑ । न॒ह्य॒त॒न॒ । उ॒त । सो॒म्याः॒ । इष्कृ॑णुध्वम् । र॒श॒नाः । आ । उ॒त । पिं॒श॒त॒ । अ॒ष्टाऽव॑न्धुरम् । व॒ह॒त॒ । अ॒भितः॑ । रथ॑म् । येन॑ । दे॒वासः॑ । अन॑यन् । अ॒भि । प्रि॒यम् ॥अक्षनहः । नह्यतन । उत । सोम्याः । इष्कृणुध्वम् । रशनाः । आ । उत । पिंशत । अष्टावन्धुरम् । वहत । अभितः । रथम् । येन । देवासः । अनयन् । अभि । प्रियम् ॥akṣa-nahaḥ | nahyatana | uta | somyāḥ | iṣkṛṇudhvam | raśanāḥ | ā | uta | piṃ śata | aṣṭāvandhuram | vahata | abhitaḥ | ratham | yena | devāsaḥ | anayan | abhi | priyam