Sukta 10.53
तन्तुं तन्वन्रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृतान् । अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनम् ॥
तन्तुं॑ त॒न्वन्रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या कृ॒तान् । अ॒नु॒ल्ब॒णं व॑यत॒ जोगु॑वा॒मपो॒ मनु॑र्भव ज॒नया॒ दैव्यं॒ जन॑म् ॥
tántuṃ tanván rájasaḥ bhā́num ánv ihi jyótiṣmataḥ pátho rakṣa dhiyā́ kṛtā́n | anulbaṇáṃ vayata jóguvām ápo mánur bhava janáyā daívyam jánam ||
Stretching the thread, follow the shining beam through the mid-world; guard the luminous paths fashioned by the thought. Weave the work without a break, O doers of the offering; become Manu, and bring to birth the divine race within.
तन्तु॑म् । त॒न्वन् । रज॑सः । भा॒नुम् । अनु॑ । इ॒हि॒ । ज्योति॑ष्मतः । प॒थः । र॒क्ष॒ । धि॒या । कृ॒तान् । अ॒नु॒ल्ब॒णम् । व॒य॒त॒ । जोगु॑वाम् । अपः॑ । मनुः॑ । भ॒व॒ । ज॒नय॑ । दैव्य॑म् । जन॑म् ॥तन्तुम् । तन्वन् । रजसः । भानुम् । अनु । इहि । ज्योतिष्मतः । पथः । रक्ष । धिया । कृतान् । अनुल्बणम् । वयत । जोगुवाम् । अपः । मनुः । भव । जनय । दैव्यम् । जनम् ॥tantum | tanvan | rajasaḥ | bhānum | anu | ihi | jyotiṣmataḥ | pathaḥ | rakṣa | dhi yā | kṛtān | anulbaṇam | vayata | joguvām | apaḥ | manuḥ | bhava | janaya | daivyam | janam