Sukta 10.53
पञ्च जना मम होत्रं जुषन्तां गोजाता उत ये यज्ञियासः । पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥
पञ्च॒ जना॒ मम॑ हो॒त्रं जु॑षन्तां॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः । पृ॒थि॒वी न॒: पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥
páñca janā́ máma hótraṃ juṣantāṃ gójātā utá yé yajñíyāsaḥ | pṛthivī́ naḥ pārthivā́t pātv áṃhasaḥ antárikṣaṃ divyā́t pātv asmā́n ||
May the five peoples take delight in my offering-word—those born of the Ray and those who are fit for sacrifice. May Earth protect us from the earthly peril; may the mid-region protect us from the celestial peril.
पञ्च॑ । ज॒नाः॒ । मम॑ । हो॒त्रम् । जु॒ष॒न्ता॒म् । गोऽजा॑ताः । उ॒त । ये । य॒ज्ञिया॑सः । पृ॒थि॒वी । नः॒ । पार्थि॑वात् । पा॒तु॒ । अंह॑सः । अ॒न्तरि॑क्षम् । दि॒व्यात् । पा॒तु॒ । अ॒स्मान् ॥पञ्च । जनाः । मम । होत्रम् । जुषन्ताम् । गोजाताः । उत । ये । यज्ञियासः । पृथिवी । नः । पार्थिवात् । पातु । अंहसः । अन्तरिक्षम् । दिव्यात् । पातु । अस्मान् ॥pañca | janāḥ | mama | hotram | juṣantām | go--jātāḥ | uta | ye | yajñiyāsaḥ | pṛthivī | naḥ | pārthivāt | pātu | aṃhasaḥ | antarikṣam | divyāt | pātu | asmān