Sukta 10.53
साध्वीमकर्देववीतिं नो अद्य यज्ञस्य जिह्वामविदाम गुह्याम् । स आयुरागात्सुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य ॥
सा॒ध्वीम॑कर्दे॒ववी॑तिं नो अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्या॑म् । स आयु॒रागा॑त्सुर॒भिर्वसा॑नो भ॒द्राम॑कर्दे॒वहू॑तिं नो अ॒द्य ॥
sādhvīm akardeva-vī́tiṃ no adyá yajñásya jihvā́m avidāma guhyā́m | sá āyúr ā́gāt surabhír vásāno bhadrā́m akardeva-hū́tiṃ no adyá ||
Today he has fashioned for us the right-going path of the Gods; today we have found the secret tongue of the sacrifice. He has come bringing the life-force, clothed in sweetness; today he has made for us the auspicious call that draws the Gods within.
सा॒ध्वीम् । अ॒कः॒ । दे॒वऽवी॑तिम् । नः॒ । अ॒द्य । य॒ज्ञस्य॑ । जि॒ह्वाम् । अ॒वि॒दा॒म॒ । गुह्या॑म् । सः । आयुः॑ । आ । अ॒गा॒त् । सु॒र॒भिः । वसा॑नः । भ॒द्राम् । अ॒कः॒ । दे॒वऽहू॑तिम् । नः॒ । अ॒द्य ॥साध्वीम् । अकः । देववीतिम् । नः । अद्य । यज्ञस्य । जिह्वाम् । अविदाम । गुह्याम् । सः । आयुः । आ । अगात् । सुरभिः । वसानः । भद्राम् । अकः । देवहूतिम् । नः । अद्य ॥sādhvīm | akaḥ | deva-vītim | naḥ | adya | yajñasya | jihvām | avidāma | guhyām | saḥ | āyuḥ | ā | agāt | surabhiḥ | vasānaḥ | bhadrām | akaḥ | deva-hūtim | naḥ | adya