Sukta 10.51
होत्रादहं वरुण बिभ्यदायं नेदेव मा युनजन्नत्र देवाः । तस्य मे तन्वो बहुधा निविष्टा एतमर्थं न चिकेताहमग्निः ॥
हो॒त्राद॒हं व॑रुण॒ बिभ्य॑दायं॒ नेदे॒व मा॑ यु॒नज॒न्नत्र॑ दे॒वाः । तस्य॑ मे त॒न्वो॑ बहु॒धा निवि॑ष्टा ए॒तमर्थं॒ न चि॑केता॒हम॒ग्निः ॥
hotrā́d aháṃ varuṇa bíbhyad ā́yaṃ néd evá mā yunájann átra devā́ḥ | tásya me tanvò bahudhā́ níviṣṭā etám árthaṃ ná ciketā́ham agníḥ ||
From the office of the Hotṛ, O Varuṇa, I came in fear; and the gods here did not yoke me to it. Therefore my forms were set in many places; this meaning I, Agni, did not understand.
हो॒त्रात् । अ॒हम् । व॒रु॒ण॒ । बिभ्य॑त् । आ॒य॒म् । न । इत् । ए॒व । मा॒ । यु॒नज॑न् । अत्र॑ । दे॒वाः । तस्य॑ । मे॒ । त॒न्वः॑ । ब॒हु॒धा । निऽवि॑ष्टाः । ए॒तम् । अर्थ॑म् । न । चि॒के॒त॒ । अ॒हम् । अ॒ग्निः ॥होत्रात् । अहम् । वरुण । बिभ्यत् । आयम् । न । इत् । एव । मा । युनजन् । अत्र । देवाः । तस्य । मे । तन्वः । बहुधा । निविष्टाः । एतम् । अर्थम् । न । चिकेत । अहम् । अग्निः ॥hotrāt | aham | varuṇa | bibhyat | āyam | na | it | eva | mā | yunajan | atra | devāḥ | tasya | me | tanvaḥ | bahudhā | ni-viṣṭāḥ | etam | artham | na | ciketa | aham | agni ḥ