Sukta 10.51
एहि मनुर्देवयुर्यज्ञकामोऽरंकृत्या तमसि क्षेष्यग्ने । सुगान्पथः कृणुहि देवयानान्वह हव्यानि सुमनस्यमानः ॥
एहि॒ मनु॑र्देव॒युर्य॒ज्ञका॑मोऽरं॒कृत्या॒ तम॑सि क्षेष्यग्ने । सु॒गान्प॒थः कृ॑णुहि देव॒याना॒न्वह॑ ह॒व्यानि॑ सुमन॒स्यमा॑नः ॥
éhi mánur devayúr yajñákāmo ’raṃkṛtyā́ tám̐asi kṣeṣy agne | su-gā́n patháḥ kṛṇuhi deva-yānā́n váha havyā́ni su-manasyámānaḥ ||
Come, O Agni; Manú, desiring the sacrifice and yearning for the Divine, has made ready your place in the darkness. Make the paths easy to go by—the god-leading paths—and carry the offerings, taking joy in the right-mindedness of the seeker.
एहि॑ । मनुः॑ । दे॒व॒ऽयुः । य॒ज्ञऽका॑मः । अ॒र॒म्ऽकृत्य॑ । तम॑सि । क्षे॒षि॒ । अ॒ग्ने॒ । सु॒ऽगान् । प॒थः । कृ॒णु॒हि॒ । दे॒व॒ऽयाना॑न् । वह॑ । ह॒व्यानि॑ । सु॒ऽम॒न॒स्यमा॑नः ॥एहि । मनुः । देवयुः । यज्ञकामः । अरम्कृत्य । तमसि । क्षेषि । अग्ने । सुगान् । पथः । कृणुहि । देवयानान् । वह । हव्यानि । सुमनस्यमानः ॥ehi | manuḥ | deva-yuḥ | yajña-kāmaḥ | aram-kṛtya | tamasi | kṣeṣi | agne | su-gān | pathaḥ | kṛṇuhi | deva-yānān | vaha | havyāni | su-manasyamānaḥ