Sukta 10.51
ऐच्छाम त्वा बहुधा जातवेदः प्रविष्टमग्ने अप्स्वोषधीषु । तं त्वा यमो अचिकेच्चित्रभानो दशान्तरुष्यादतिरोचमानम् ॥
ऐच्छा॑म त्वा बहु॒धा जा॑तवेद॒: प्रवि॑ष्टमग्ने अ॒प्स्वोष॑धीषु । तं त्वा॑ य॒मो अ॑चिकेच्चित्रभानो दशान्तरु॒ष्याद॑ति॒रोच॑मानम् ॥
áicchām tvā bahudhā́ jātavedā́ḥ práviṣṭam agne apsv òṣadhīṣu | táṃ tvā yámo aciket citrabhāno daśāntaruṣyā́d atirócamānam ||
I sought you in many ways, O Jātavedas, entered into the waters and into the plants. You—O many-flamed—Yama recognized, shining beyond the ten boundaries, surpassing in your radiance.
ऐच्छा॑म । त्वा॒ । ब॒हु॒धा । जा॒त॒ऽवे॒दः॒ । प्रऽवि॑ष्टम् । अ॒ग्ने॒ । अ॒प्ऽसु । ओष॑धीषु । तम् । त्वा॒ । य॒मः । अ॒चि॒के॒त् । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । द॒श॒ऽअ॒न्त॒रु॒ष्यात् । अ॒ति॒ऽरोच॑मानम् ॥ऐच्छाम । त्वा । बहुधा । जातवेदः । प्रविष्टम् । अग्ने । अप्सु । ओषधीषु । तम् । त्वा । यमः । अचिकेत् । चित्रभानो इति चित्रभानो । दशअन्तरुष्यात् । अतिरोचमानम् ॥aicchāma | tvā | bahudhā | jāta-vedaḥ | pra-viṣṭam | agne | ap-su | oṣadhīṣu | tam | tvā | yamaḥ | acciket | citrabhāno iticitra-bhāno | daśa-antaruṣyāt | ati-rocamānam