Sukta 10.51
को मा ददर्श कतमः स देवो यो मे तन्वो बहुधा पर्यपश्यत् । क्वाह मित्रावरुणा क्षियन्त्यग्नेर्विश्वाः समिधो देवयानीः ॥
को मा॑ ददर्श कत॒मः स दे॒वो यो मे॑ त॒न्वो॑ बहु॒धा प॒र्यप॑श्यत् । क्वाह॑ मित्रावरुणा क्षियन्त्य॒ग्नेर्विश्वा॑: स॒मिधो॑ देव॒यानी॑: ॥
kó mā dadarśa katamáḥ sá devó yó me tanvò bahudhā́ pár(y) apaśyat | kvā́ha mitrā́varuṇā kṣiyanty agnér víśvāḥ samídho deva-yānī́ḥ ||
Who has seen me? Which god is he who has looked around upon my many forms? Where indeed dwell Mitra and Varuṇa? Where are all the kindlings of Agni that lead toward the Divine?
कः । मा॒ । द॒द॒र्श॒ । क॒त॒मः । सः । दे॒वः । यः । मे॒ । त॒न्वः॑ । ब॒हु॒धा । प॒रि॒ऽअप॑श्यत् । क्व॑ । अह॑ । मि॒त्रा॒व॒रु॒णा॒ । क्षि॒य॒न्ति॒ । अ॒ग्नेः । विश्वाः॑ । स॒म्ऽइधः॑ । दे॒व॒ऽयानीः॑ ॥कः । मा । ददर्श । कतमः । सः । देवः । यः । मे । तन्वः । बहुधा । परिअपश्यत् । क्व । अह । मित्रावरुणा । क्षियन्ति । अग्नेः । विश्वाः । सम्इधः । देवयानीः ॥kaḥ | mā | dṛrśa | katamaḥ | saḥ | devaḥ | yaḥ | me | tanvaḥ | bahudhā | pari-apaśyat | kva | aha | mitrāvaruṇā | kṣiyanti | agneḥ | viśvāḥ | sam-idhaḥ | deva-yānīḥ