Sukta 10.51
महत्तदुल्बं स्थविरं तदासीद्येनाविष्टितः प्रविवेशिथापः । विश्वा अपश्यद्बहुधा ते अग्ने जातवेदस्तन्वो देव एकः ॥
म॒हत्तदुल्बं॒ स्थवि॑रं॒ तदा॑सी॒द्येनावि॑ष्टितः प्रवि॒वेशि॑था॒पः । विश्वा॑ अपश्यद्बहु॒धा ते॑ अग्ने॒ जात॑वेदस्त॒न्वो॑ दे॒व एक॑: ॥
mahát tád úlbaṃ stháviram tád āsīd yénā́viṣṭitaḥ pra-vivéśithā́paḥ | víśvā apaśyad bahudhā́ te agne jātávedas tanvò devá ékaḥ ||
Great was that strong enclosing sheath; by it, invested, you entered into the Waters. You beheld all forms in many ways, O Agni Jātavedas—the one divine being taking many bodies.
म॒हत् । तत् । उल्ब॑म् । स्थवि॑रम् । तत् । आ॒सी॒त् । येन॑ । आऽवि॑ष्टितः । प्र॒ऽवि॒वेशि॑थ । अ॒पः । विश्वाः॑ । अ॒प॒श्य॒त् । ब॒हु॒धा । ते॒ । अ॒ग्ने॒ । जात॑ऽवेदः । त॒न्वः॑ । दे॒वः । एकः॑ ॥महत् । तत् । उल्बम् । स्थविरम् । तत् । आसीत् । येन । आविष्टितः । प्रविवेशिथ । अपः । विश्वाः । अपश्यत् । बहुधा । ते । अग्ने । जातवेदः । तन्वः । देवः । एकः ॥mahat | tat | ulbam | sthaviram | tat | āsīt | yena | āviṣṭitaḥ | pra-viveśitha | apaḥ | viśvāḥ | apaśyat | bahudhā | te | agne | jāta-vedaḥ | tanvaḥ | devaḥ | ekaḥ