Sukta 10.50
भुवस्त्वमिन्द्र ब्रह्मणा महान्भुवो विश्वेषु सवनेषु यज्ञियः । भुवो नॄँश्च्यौत्नो विश्वस्मिन्भरे ज्येष्ठश्च मन्त्रो विश्वचर्षणे ॥
भुव॒स्त्वमि॑न्द्र॒ ब्रह्म॑णा म॒हान्भुवो॒ विश्वे॑षु॒ सव॑नेषु य॒ज्ञिय॑: । भुवो॒ नॄँश्च्यौ॒त्नो विश्व॑स्मि॒न्भरे॒ ज्येष्ठ॑श्च॒ मन्त्रो॑ विश्वचर्षणे ॥
bhúvas tvám indra bráhmaṇā mahā́n bhúvo víśveṣu sávaneṣu yajñíyaḥ | bhúvo nṝ́ṃś cyautnó víśvasmin bháre jyéṣṭhaś ca mántró viśva-carṣaṇe ||
You are, O Indra, great by the Word; you are worthy of the offering in all the pressings. You are the impelling power among men in every bearing of the load; you are the eldest mantra for all the peoples—leader of the universal march.
भुवः॑ । त्वम् । इ॒न्द्र॒ । ब्रह्म॑णा । म॒हान् । भुवः॑ । विश्वे॑षु । सव॑नेषु । य॒ज्ञियः॑ । भुवः॑ । नॄन् । च्यौ॒त्नः । विश्व॑स्मिन् । भरे॑ । ज्येष्ठः॑ । च॒ । मन्त्रः॑ । वि॒श्व॒ऽच॒र्ष॒णे॒ ॥भुवः । त्वम् । इन्द्र । ब्रह्मणा । महान् । भुवः । विश्वेषु । सवनेषु । यज्ञियः । भुवः । नॄन् । च्यौत्नः । विश्वस्मिन् । भरे । ज्येष्ठः । च । मन्त्रः । विश्वचर्षणे ॥bhuvaḥ | tvam | indra | brahmaṇā | mahān | bhuvaḥ | viśveṣu | savaneṣu | yajñiyaḥ | bhuvaḥ | nṝn | cyautnaḥ | viśvasmin | bhare | jyeṣṭhaḥ | ca | mantraḥ | viśva-carṣaṇe