Sukta 10.50
सो चिन्नु सख्या नर्य इनः स्तुतश्चर्कृत्य इन्द्रो मावते नरे । विश्वासु धूर्षु वाजकृत्येषु सत्पते वृत्रे वाप्स्वभि शूर मन्दसे ॥
सो चि॒न्नु सख्या॒ नर्य॑ इ॒नः स्तु॒तश्च॒र्कृत्य॒ इन्द्रो॒ माव॑ते॒ नरे॑ । विश्वा॑सु धू॒र्षु वा॑ज॒कृत्ये॑षु सत्पते वृ॒त्रे वा॒प्स्व१॒॑भि शू॑र मन्दसे ॥
só cit nú sakhyā́ nárya ináḥ stutáś carkṛ́tya índro mā́vate náre | víśvāsu dhūrṣú vā́ja-kṛ́tyeṣu sat-pate vṛ́tre vā́psv àbhí śū́ra mandase ||
He indeed, the friend of man, the strong one, when praised, takes joy for the generous human. In all the onsets, in all acts that fashion plenitude of force, O lord of the true, whether against the Coverer or in the waters, O hero, you become glad—ready for victory.
सः । चि॒त् । नु । सख्या॑ । नर्यः॑ । इ॒नः । स्तु॒तः । च॒र्कृत्यः॑ । इन्द्रः॑ । माऽव॑ते । नरे॑ । विश्वा॑सु । धूः॒ऽसु । वा॒ज॒ऽकृत्ये॑षु । स॒त्ऽप॒ते॒ । वृ॒त्रे । वा॒ । अ॒प्ऽसु । अ॒भि । शू॒र॒ । म॒न्द॒से॒ ॥सः । चित् । नु । सख्या । नर्यः । इनः । स्तुतः । चर्कृत्यः । इन्द्रः । मावते । नरे । विश्वासु । धूःसु । वाजकृत्येषु । सत्पते । वृत्रे । वा । अप्सु । अभि । शूर । मन्दसे ॥saḥ | cit | nu | sakhyā | naryaḥ | inaḥ | stutaḥ | carkṛtyaḥ | indraḥ | māvate | nare | viśvāsu | dhūḥ-su | vāja-kṛtyeṣu | sat-pate | vṛtre | vā | ap-su | abhi | śūra | mandase