Sukta 10.50
प्र वो महे मन्दमानायान्धसोऽर्चा विश्वानराय विश्वाभुवे । इन्द्रस्य यस्य सुमखं सहो महि श्रवो नृम्णं च रोदसी सपर्यतः ॥
प्र वो॑ म॒हे मन्द॑माना॒यान्ध॒सोऽर्चा॑ वि॒श्वान॑राय विश्वा॒भुवे॑ । इन्द्र॑स्य॒ यस्य॒ सुम॑खं॒ सहो॒ महि॒ श्रवो॑ नृ॒म्णं च॒ रोद॑सी सप॒र्यत॑: ॥
prá vo mahé mándamānāyā́ndhaso ’rcā́ viśvā́narāya viśvā́-bhuve | índrasya yásya sú-makhaṃ sáho máhi śrávo nṛ́mṇaṃ ca ródasī saparyátaḥ ||
Forth to you I chant for the great one, gladdened with the pressed delight—Viśvānara, the universal becoming. Indra’s power, whose happy rapture is mighty, whose hearing-fame and heroic force the two worlds serve and cherish.
प्र । वः॒ । म॒हे । मन्द॑मानाय । अन्ध॑सः । अर्च॑ । वि॒श्वान॑राय । वि॒श्व॒ऽभुवे॑ । इन्द्र॑स्य । यस्य॑ । सुऽम॑खम् । सहः॑ । महि॑ । श्रवः॑ । नृ॒म्णम् । च॒ । रोद॑सी॒ इति॑ । स॒प॒र्यतः॑ ॥प्र । वः । महे । मन्दमानाय । अन्धसः । अर्च । विश्वानराय । विश्वभुवे । इन्द्रस्य । यस्य । सुमखम् । सहः । महि । श्रवः । नृम्णम् । च । रोदसी इति । सपर्यतः ॥pra | vaḥ | mahe | mandamānāya | andhasaḥ | arca | viśvānarāya | viśva-bhuve | indrasya | yasya | su-makham | sahaḥ | mahi | śravaḥ | nṛmṇam | ca | rodasī iti | saparyataḥ