Sukta 10.5
ऋतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर्वर्धयन्ती । विश्वस्य नाभिं चरतो ध्रुवस्य कवेश्चित्तन्तुं मनसा वियन्तः ॥
ऋ॒ता॒यिनी॑ मा॒यिनी॒ सं द॑धाते मि॒त्वा शिशुं॑ जज्ञतुर्व॒र्धय॑न्ती । विश्व॑स्य॒ नाभिं॒ चर॑तो ध्रु॒वस्य॑ क॒वेश्चि॒त्तन्तुं॒ मन॑सा वि॒यन्त॑: ॥
ṛtāyínī māyínī sáṃ dadhāte mitvā́ śíśuṃ jajñatúr vardháyantī | víśvasya nā́bhiṃ cárato dhruvásya kavéś cit tántuṃ mánasā vi-yántaḥ ||
The one who moves by R̥ta and the one who works by Māyā join together; having measured, they give birth to the child and foster him. They move about the navel of the whole, of the steadfast; even the seer’s thread they weave out by the mind.
ऋ॒त॒यिनी॒ इत्यृ॑त॒ऽयिनी॑ । मा॒यिनी॒ इति॑ । सम् । द॒धा॒ते॒ इति॑ । मि॒त्वा । शिशु॑म् । ज॒ज्ञ॒तुः॒ । व॒र्धय॑न्ती॒ इति॑ । विश्व॑स्य । नाभि॑म् । चर॑तः । ध्रु॒वस्य॑ । क॒वेः । चि॒त् । तन्तु॑म् । मन॑सा । वि॒ऽयन्तः॑ ॥ऋतयिनी इत्यृतयिनी । मायिनी इति । सम् । दधाते इति । मित्वा । शिशुम् । जज्ञतुः । वर्धयन्ती इति । विश्वस्य । नाभिम् । चरतः । ध्रुवस्य । कवेः । चित् । तन्तुम् । मनसा । वियन्तः ॥ṛtayinī ity ṛṛta-yinī | māyinī iti | sam | dadhāteiti | mitvā | śiśum | jajñatuḥ | vardhayantī iti | viśvasya | nābhim | carataḥ | dhruvasya | kaveḥ | cit | tantum | manasā | vi-yantaḥ