Sukta 10.5
समानं नीळं वृषणो वसानाः सं जग्मिरे महिषा अर्वतीभिः । ऋतस्य पदं कवयो नि पान्ति गुहा नामानि दधिरे पराणि ॥
स॒मा॒नं नी॒ळं वृष॑णो॒ वसा॑ना॒: सं ज॑ग्मिरे महि॒षा अर्व॑तीभिः । ऋ॒तस्य॑ प॒दं क॒वयो॒ नि पा॑न्ति॒ गुहा॒ नामा॑नि दधिरे॒ परा॑णि ॥
samānáṃ nīḷáṃ vṛ́ṣaṇo vásānāḥ sáṃ jagmiré mahiṣā́ arvatī́bhiḥ | ṛtásya padáṃ kaváyo ní pānti guhā́ nā́māni dadhire párāṇi ||
Clothing themselves in the same nest, the mighty males have come together with their coursers. The seers guard the step of R̥ta; in secrecy they have placed the supreme names.
स॒मा॒नम् । नी॒ळम् । वृष॑णः । वसा॑नाः । सम् । ज॒ग्मि॒रे॒ । म॒हि॒षाः । अर्व॑तीभिः । ऋ॒तस्य॑ । प॒दम् । क॒वयः॑ । नि । पा॒न्ति॒ । गुहा॑ । नामा॑नि । द॒धि॒रे॒ । परा॑णि ॥समानम् । नीळम् । वृषणः । वसानाः । सम् । जग्मिरे । महिषाः । अर्वतीभिः । ऋतस्य । पदम् । कवयः । नि । पान्ति । गुहा । नामानि । दधिरे । पराणि ॥samānam | nīḷam | vṛṣaṇaḥ | vasānāḥ | sam | jagmire | mahiṣāḥ | arvatībhiḥ | ṛtasya | padam | kavayaḥ | ni | pānti | guhā | nāmāni | dadhire | parāṇi