Sukta 10.5
ऋतस्य हि वर्तनयः सुजातमिषो वाजाय प्रदिवः सचन्ते । अधीवासं रोदसी वावसाने घृतैरन्नैर्वावृधाते मधूनाम् ॥
ऋ॒तस्य॒ हि व॑र्त॒नय॒: सुजा॑त॒मिषो॒ वाजा॑य प्र॒दिव॒: सच॑न्ते । अ॒धी॒वा॒सं रोद॑सी वावसा॒ने घृ॒तैरन्नै॑र्वावृधाते॒ मधू॑नाम् ॥
ṛtásya hí vartanáyaḥ su-jātám íṣo vājā́ya prá-divaḥ sácante | adhīvāsáṃ rodasī vāvásāne ghṛtáiḥ ánnair vāvṛdhāte mádhūnām ||
For the paths of R̥ta cleave to what is well-born; the impulsions join to plenitude of force from the forward heaven. The two worlds, clothing themselves with the covering, grow by clarified richness and by foods of delight, by the sweetnesses.
ऋ॒तस्य॑ । हि । व॒र्त॒नयः॑ । सुऽजा॑तम् । इषः॑ । वाजा॑य । प्र॒ऽदिवः॑ । सच॑न्ते । अ॒धी॒वा॒सम् । रोद॑सी॒ इति॑ । व॒व॒सा॒ने इति॑ । घृ॒तैः । अन्नैः॑ । व॒वृ॒धा॒ते॒ इति॑ । मधू॑नाम् ॥ऋतस्य । हि । वर्तनयः । सुजातम् । इषः । वाजाय । प्रदिवः । सचन्ते । अधीवासम् । रोदसी इति । ववसाने इति । घृतैः । अन्नैः । ववृधाते इति । मधूनाम् ॥ṛtasya | hi | vartanayaḥ | su-jātam | iṣaḥ | vājāya | pra-divaḥ | sacante | adhīvāsam | rodasī iti | vavasāne iti | ghṛtaiḥ | annaiḥ | vavṛdhāteiti | madhūnām