Sukta 10.5
एकः समुद्रो धरुणो रयीणामस्मद्धृदो भूरिजन्मा वि चष्टे । सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्ये निहितं पदं वेः ॥
एक॑: समु॒द्रो ध॒रुणो॑ रयी॒णाम॒स्मद्धृ॒दो भूरि॑जन्मा॒ वि च॑ष्टे । सिष॒क्त्यूध॑र्नि॒ण्योरु॒पस्थ॒ उत्स॑स्य॒ मध्ये॒ निहि॑तं प॒दं वेः ॥
ékaḥ samudró dharúṇo rayīṇām asmád hṛdó bhū́ri-janmā ví caṣṭe | sísakty ū́dhar niṇyór upástha utsásya mádhye ní-hitaṃ padáṃ véḥ ||
One is the Ocean, the sustaining base of plenitudes; from our heart the many-born perceives and reveals. He attaches the udder in the hidden seat; in the middle of the fountain he has set the track/footing of the seeker.
एकः॑ । स॒मु॒द्रः । ध॒रुणः॑ । र॒यी॒णाम् । अ॒स्मत् । हृ॒दः । भूरि॑ऽजन्मा । वि । च॒ष्टे॒ । सिस॑क्ति । ऊधः॑ । नि॒ण्योः । उ॒पऽस्थे॑ । उत्स॑स्य । मध्ये॑ । निऽहि॑तम् । प॒दम् । वेरिति॒ वेः ॥एकः । समुद्रः । धरुणः । रयीणाम् । अस्मत् । हृदः । भूरिजन्मा । वि । चष्टे । सिसक्ति । ऊधः । निण्योः । उपस्थे । उत्सस्य । मध्ये । निहितम् । पदम् । वेरिति वेः ॥ekaḥ | samudraḥ | dharuṇaḥ | rayīṇām | asmat | hṛdaḥ | bhūri-janmā | vi | caṣṭe | si sakti | ūdhaḥ | niṇyoḥ | upa-sthe | utsasya | madhye | ni-hitam | padam | veritiveḥ