Sukta 10.48
प्र मे नमी साप्य इषे भुजे भूद्गवामेषे सख्या कृणुत द्विता । दिद्युं यदस्य समिथेषु मंहयमादिदेनं शंस्यमुक्थ्यं करम् ॥
प्र मे॒ नमी॑ सा॒प्य इ॒षे भु॒जे भू॒द्गवा॒मेषे॑ स॒ख्या कृ॑णुत द्वि॒ता । दि॒द्युं यद॑स्य समि॒थेषु॑ मं॒हय॒मादिदे॑नं॒ शंस्य॑मु॒क्थ्यं॑ करम् ॥
prá me námī sāpyá íṣe bhujé bhūd gávām éṣe sakhyā́ kṛṇuta dvitā́ | didyúṃ yád asya samithéṣu maṃháyam ā́d íd enaṃ śáṃsyaṃ ukthyàṃ karam ||
Forward for me went Namī, the companion, for impulse and for enjoyment; he made again the friendship in the seeking of the luminous Rays. When I magnified his lightning-force in the battles, then I made him one to be proclaimed and hymned.
प्र । मे॒ । नमी॑ । सा॒प्यः । इ॒षे । भु॒जे । भू॒त् । गवा॑म् । एषे॑ । स॒ख्या । कृ॒णु॒त॒ । द्वि॒ता । दि॒द्युम् । यत् । अ॒स्य॒ । स॒मि॒थेषु॑ । मं॒हय॑म् । आत् । इत् । ए॒न॒म् । शंस्य॑म् । उ॒क्थ्य॑म् । क॒र॒म् ॥प्र । मे । नमी । साप्यः । इषे । भुजे । भूत् । गवाम् । एषे । सख्या । कृणुत । द्विता । दिद्युम् । यत् । अस्य । समिथेषु । मंहयम् । आत् । इत् । एनम् । शंस्यम् । उक्थ्यम् । करम् ॥pra | me | namī | sāpyaḥ | iṣe | bhuje | bhūt | gavām | eṣe | sakhyā | kṛṇuta | dvitā | didyum | yat | asya | samitheṣu | maṃhayam | āt | it | enam | śaṃsyam | ukthyam | karam