Sukta 10.48
अहं गुङ्गुभ्यो अतिथिग्वमिष्करमिषं न वृत्रतुरं विक्षु धारयम् । यत्पर्णयघ्न उत वा करञ्जहे प्राहं महे वृत्रहत्ये अशुश्रवि ॥
अ॒हं गु॒ङ्गुभ्यो॑ अतिथि॒ग्वमिष्क॑र॒मिषं॒ न वृ॑त्र॒तुरं॑ वि॒क्षु धा॑रयम् । यत्प॑र्णय॒घ्न उ॒त वा॑ करञ्ज॒हे प्राहं म॒हे वृ॑त्र॒हत्ये॒ अशु॑श्रवि ॥
aháṃ guṅgúbhyo atithigvámiṣkarám íṣaṃ ná vṛtratúraṃ vikṣú dhārayam | yát parṇayaghná utá vā karañjahé práháṃ mahé vṛtrahátye áśuśravi ||
I upheld for the peoples a sustaining power, Atithigva, a nourishment like the force that presses down the Vṛtra. When I slew the Parṇaya, or in the battle at Karañja, then my fame went forth in the great act of Vṛtra-slaying.
अ॒हम् । गु॒ङ्गुऽभ्यः॑ । अ॒ति॒थि॒ऽग्वम् । इष्क॑रम् । इष॑म् । न । वृ॒त्र॒ऽतुर॑म् । वि॒क्षु । धा॒र॒य॒म् । यत् । प॒र्ण॒य॒ऽघ्ने । उ॒त । वा॒ । क॒र॒ञ्ज॒ऽहे । प्र । अ॒हम् । म॒हे । वृ॒त्र॒ऽहत्ये॑ । अशु॑श्रवि ॥अहम् । गुङ्गुभ्यः । अतिथिग्वम् । इष्करम् । इषम् । न । वृत्रतुरम् । विक्षु । धारयम् । यत् । पर्णयघ्ने । उत । वा । करञ्जहे । प्र । अहम् । महे । वृत्रहत्ये । अशुश्रवि ॥aham | guṅgu-bhyaḥ | atithi-gvam | iṣkaram | iṣam | na | vṛtra-turam | vikṣu | dhārayam | yat | parṇaya-ghne | uta | vā | karañja-he | pra | aham | mahe | vṛtra-hatye | aśuśravi