Sukta 10.48
अभीदमेकमेको अस्मि निष्षाळभी द्वा किमु त्रयः करन्ति । खले न पर्षान्प्रति हन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः ॥
अ॒भी॒३॒॑दमेक॒मेको॑ अस्मि नि॒ष्षाळ॒भी द्वा किमु॒ त्रय॑: करन्ति । खले॒ न प॒र्षान्प्रति॑ हन्मि॒ भूरि॒ किं मा॑ निन्दन्ति॒ शत्र॑वोऽनि॒न्द्राः ॥
abhī́dám ékam éko asmi niṣṣā́ḷ abhí dvā́ kím u tráyaḥ karanti | khále ná párṣān práti hanmi bhū́ri kím mā nindanti śátravó ’nindrā́ḥ ||
Facing this single challenge, I stand alone, a force not to be crushed. Why should two—or even three—matter against that? Like grains on the threshing-floor I strike down many obstacles. Why do the foes, who lack the Indra-power, still revile me?
अ॒भि । इ॒दम् । एक॑म् । एकः॑ । अ॒स्मि॒ । नि॒ष्षाट् । अ॒भि । द्वा । किम् । ऊँ॒ इति॑ । त्रयः॑ । क॒र॒न्ति॒ । खले॑ । न । प॒र्षान् । प्रति॑ । ह॒न्मि॒ । भूरि॑ । किम् । मा॒ । नि॒न्द॒न्ति॒ । शत्र॑वः । अ॒नि॒न्द्राः ॥अभि । इदम् । एकम् । एकः । अस्मि । निष्षाट् । अभि । द्वा । किम् । ऊँ इति । त्रयः । करन्ति । खले । न । पर्षान् । प्रति । हन्मि । भूरि । किम् । मा । निन्दन्ति । शत्रवः । अनिन्द्राः ॥abhi | idam | ekam | ekaḥ | asmi | niṣṣāṭ | abhi | dvā | kim | oṃ iti | trayaḥ | karanti | khale | na | parṣān | prati | hanmi | bhūri | kim | mā | nindantiśatravo--nindrāḥ