Sukta 10.48
अहमेतं गव्ययमश्व्यं पशुं पुरीषिणं सायकेना हिरण्ययम् । पुरू सहस्रा नि शिशामि दाशुषे यन्मा सोमास उक्थिनो अमन्दिषुः ॥
अ॒हमे॒तं ग॒व्यय॒मश्व्यं॑ प॒शुं पु॑री॒षिणं॒ साय॑केना हिर॒ण्यय॑म् । पु॒रू स॒हस्रा॒ नि शि॑शामि दा॒शुषे॒ यन्मा॒ सोमा॑स उ॒क्थिनो॒ अम॑न्दिषुः ॥
ahám etáṃ gavyáyam aśvyáṃ paśúṃ purīṣíṇaṃ sā́yakena hiraṇyáyam | purū́ sahásrā ní śiśāmi dāśúṣe yán mā sómāsa ukthíno ámandiṣuḥ ||
I prepare for the offerer this wealth of cattle and horses, this fruitful living force, golden and armed with the dart of power. Many thousands I set in order for the giver of sacrifice, when the Soma-pressings with their hymns have gladdened me.
अ॒हम् । ए॒तम् । ग॒व्यय॑म् । अश्व्य॑म् । प॒शुम् । पु॒री॒षिण॑म् । साय॑केन । हि॒र॒ण्यय॑म् । पु॒रु । स॒हस्रा॑ । नि । शि॒शा॒मि॒ । दा॒शुषे॑ । यत् । मा॒ । सोमा॑सः । उ॒क्थिनः॑ । अम॑न्दिषुः ॥अहम् । एतम् । गव्ययम् । अश्व्यम् । पशुम् । पुरीषिणम् । सायकेन । हिरण्ययम् । पुरु । सहस्रा । नि । शिशामि । दाशुषे । यत् । मा । सोमासः । उक्थिनः । अमन्दिषुः ॥aham | etam | gavyayam | aśvyam | paśum | purīṣiṇam | sāyakena | hiraṇyayam | puru | sahasrā | ni | śiśāmi | dāśuṣe | yat | mā | somāsaḥ | ukthinaḥ | amandiṣuḥ