Sukta 10.48
मह्यं त्वष्टा वज्रमतक्षदायसं मयि देवासोऽवृजन्नपि क्रतुम् । ममानीकं सूर्यस्येव दुष्टरं मामार्यन्ति कृतेन कर्त्वेन च ॥
मह्यं॒ त्वष्टा॒ वज्र॑मतक्षदाय॒सं मयि॑ दे॒वासो॑ऽवृज॒न्नपि॒ क्रतु॑म् । ममानी॑कं॒ सूर्य॑स्येव दु॒ष्टरं॒ मामार्य॑न्ति कृ॒तेन॒ कर्त्वे॑न च ॥
máhyaṃ tváṣṭā vájram atakṣad āyasáṃ máyi devā́so ’vṛjan ápi krátum | mamā́nīkaṃ sū́ryasyeva dúṣṭaraṃ mām ā́ryanti kṛténa kártvēna ca ||
For me Tvaṣṭṛ fashioned the iron thunder-force; in me the gods set also the will and effective intention. My front is hard to overpass like the Sun’s; they strive against me by their works and doings, yet I stand unbroken.
मह्य॑म् । त्वष्टा॑ । वज्र॑म् । अ॒त॒क्ष॒त् । आ॒य॒सम् । मयि॑ । दे॒वासः॑ । अ॒वृ॒ज॒न् । अपि॑ । क्रतु॑म् । मम॑ । अनी॑कम् । सूर्य॑स्यऽइव । दु॒स्तर॑म् । माम् । आर्य॑न्ति । कृ॒तेन॑ । कर्त्वे॑न । च॒ ॥मह्यम् । त्वष्टा । वज्रम् । अतक्षत् । आयसम् । मयि । देवासः । अवृजन् । अपि । क्रतुम् । मम । अनीकम् । सूर्यस्यइव । दुस्तरम् । माम् । आर्यन्ति । कृतेन । कर्त्वेन । च ॥mahyam | tvaṣṭā | vajram | atakṣat | āyasam | mayi | devāsaḥ | avṛjan | api | kratum | mama | anīkam | sūryasya-iva | dustaram | mām | āryanti | kṛtena | kartvena | ca