Sukta 10.48
अहमिन्द्रो रोधो वक्षो अथर्वणस्त्रिताय गा अजनयमहेरधि । अहं दस्युभ्यः परि नृम्णमा ददे गोत्रा शिक्षन्दधीचे मातरिश्वने ॥
अ॒हमिन्द्रो॒ रोधो॒ वक्षो॒ अथ॑र्वणस्त्रि॒ताय॒ गा अ॑जनय॒महे॒रधि॑ । अ॒हं दस्यु॑भ्य॒: परि॑ नृ॒म्णमा द॑दे गो॒त्रा शिक्ष॑न्दधी॒चे मा॑त॒रिश्व॑ने ॥
ahám índro ródho vákṣo átharvaṇas tritā́ya gā́ ajanayam áher ádhi | aháṃ dásyubhyaḥ pári nṛ́mṇam ā́ dade gotrā́ śíkṣan dadhī́ce mātáriśvane ||
I am Indra, the resisting barrier and the widening breast of Atharvan-power; for Trita I brought forth the rays of Light from over the serpent. I set strength around against the dasyus; and I taught the hidden pens to Dadhīci for Mātariśvan—so the secret Fire may be borne.
अ॒हम् । इन्द्रः॑ । रोधः॑ । वक्षः॑ । अथ॑र्वणः । त्रि॒तायः॑ । गाः । अ॒ज॒न॒य॒म् । अहेः॑ । अधि॑ । अ॒हम् । दस्यु॑ऽभ्यः । परि॑ । नृ॒म्णम् । आ । द॒दे॒ । गो॒त्रा । शिक्ष॑न् । द॒धी॒चे । मा॒त॒रिश्व॑ने ॥अहम् । इन्द्रः । रोधः । वक्षः । अथर्वणः । त्रितायः । गाः । अजनयम् । अहेः । अधि । अहम् । दस्युभ्यः । परि । नृम्णम् । आ । ददे । गोत्रा । शिक्षन् । दधीचे । मातरिश्वने ॥aham | indraḥ | rodhaḥ | vakṣaḥ | atharvaṇaḥ | tritāyaḥ | gāḥ | ajanayam | aheḥ | adhi | aham | dasyu-bhyaḥ | pari | nṛmṇam | ā | dade | gotrā | śikṣan | dadhīce | mātariśvane