Sukta 10.48
अहं भुवं वसुनः पूर्व्यस्पतिरहं धनानि सं जयामि शश्वतः । मां हवन्ते पितरं न जन्तवोऽहं दाशुषे वि भजामि भोजनम् ॥
अ॒हं भु॑वं॒ वसु॑नः पू॒र्व्यस्पति॑र॒हं धना॑नि॒ सं ज॑यामि॒ शश्व॑तः । मां ह॑वन्ते पि॒तरं॒ न ज॒न्तवो॒ऽहं दा॒शुषे॒ वि भ॑जामि॒ भोज॑नम् ॥
aháṃ bhúvam vásunaḥ pū́rvyas pátir aháṃ dhánāni sáṃ jayāmi śáśvataḥ | mā́ṃ havante pitáraṃ ná jantávo ’háṃ dāśúṣe ví bhajāmi bhójanam ||
I am the ancient lord of the abundance; I gather the riches together forever. Creatures call to me as to a father; and to the giver of offering I apportion the enjoyment—an inward sustenance and share of felicity.
अ॒हम् । भु॒व॒म् । वसु॑नः । पू॒र्व्यः । पतिः॑ । अ॒हम् । धना॑नि । सम् । ज॒जा॒मि॒ । शश्व॑तः । माम् । ह॒व॒न्ते॒ । पि॒तर॑म् । न । ज॒न्तवः॑ । अ॒हम् । दा॒शुषे॑ । वि । भ॒जा॒मि॒ । भोज॑नम् ॥अहम् । भुवम् । वसुनः । पूर्व्यः । पतिः । अहम् । धनानि । सम् । जजामि । शश्वतः । माम् । हवन्ते । पितरम् । न । जन्तवः । अहम् । दाशुषे । वि । भजामि । भोजनम् ॥aham | bhuvam | vasunaḥ | pūrvyaḥ | patiḥ | aham | dhanāni | sam | jajāmi | śaśvataḥ | mām | havante | pitaram | na | jantavaḥ | aham | dāśuṣe | vi | bhajāmi | bhojanam