Sukta 10.45
यस्ते अद्य कृणवद्भद्रशोचेऽपूपं देव घृतवन्तमग्ने । प्र तं नय प्रतरं वस्यो अच्छाभि सुम्नं देवभक्तं यविष्ठ ॥
यस्ते॑ अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पं दे॑व घृ॒तव॑न्तमग्ने । प्र तं न॑य प्रत॒रं वस्यो॒ अच्छा॒भि सु॒म्नं दे॒वभ॑क्तं यविष्ठ ॥
yás te adyá kṛṇávad bhadrá-śoce ’pū́paṃ deva ghṛtávantam agne | prá táṃ naya prataráṃ vásyo áchā́bhi súmnaṃ deva-bháktam yaviṣṭha ||
Whoever today prepares for you, O fair-flaming God, the cake rich in clarified light, O Agni—lead him forward to a better and more desirable state, toward the grace that is shared by the gods, O youngest and strongest flame.
यः । ते॒ । अ॒द्य । कृ॒णव॑त् । भ॒द्र॒ऽशो॒चे॒ । अ॒पू॒पम् । दे॒व॒ । घृ॒तऽव॑न्तम् । अ॒ग्ने॒ । प्र । तम् । न॒य॒ । प्र॒ऽत॒रम् । वस्यः॑ । अच्छ॑ । अ॒भि । सु॒म्नम् । दे॒वऽभ॑क्तम् । य॒वि॒ष्ठ॒ ॥यः । ते । अद्य । कृणवत् । भद्रशोचे । अपूपम् । देव । घृतवन्तम् । अग्ने । प्र । तम् । नय । प्रतरम् । वस्यः । अच्छ । अभि । सुम्नम् । देवभक्तम् । यविष्ठ ॥yaḥ | te | adya | kṛṇavat | bhadra-śoce | apūpam | deva | ghṛta-vantam | agne | pra | tam | naya | pra-taram | vasyaḥ | accha | abhi | sumnam | deva-bhaktam | yaviṣṭha