Sukta 10.45
आ तं भज सौश्रवसेष्वग्न उक्थौक्थ आ भज शस्यमाने । प्रियः सूर्ये प्रियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः ॥
आ तं भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थौ॑क्थ॒ आ भ॑ज श॒स्यमा॑ने । प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः ॥
ā́ táṃ bhaja sauśraváseṣv agna ukthe-úkthe ā́ bhaja śasyámāne | priyáḥ sū́rye priyó agnā́ bhavāty új-jā́tena bhinadad új-janitvaiḥ ||
Take him to yourself, O Agni, among those who win true hearing, in each hymn, when he is praised. Beloved of the Sun, beloved through Agni he becomes; by the upsurging birth he breaks open, by the upsurging begettings.
आ । तम् । भ॒ज॒ । सौ॒श्र॒वसेषु॑ । अ॒ग्ने॒ । उ॒क्थेऽउ॑क्थे । आ । भ॒ज॒ । श॒स्यमा॑ने । प्रि॒यः । सूर्ये॑ । प्रि॒यः । अ॒ग्ना । भ॒वा॒ति॒ । उत् । जा॒तेन॑ । भि॒नद॑त् । उत् । जनि॑ऽत्वैः ॥आ । तम् । भज । सौश्रवसेषु । अग्ने । उक्थेउक्थे । आ । भज । शस्यमाने । प्रियः । सूर्ये । प्रियः । अग्ना । भवाति । उत् । जातेन । भिनदत् । उत् । जनित्वैः ॥ā | tam | bhaja | sauśravaseṣu | agne | ukthe--ukthe | ā | bhaja | śasyamāne | priyaḥ | sūrye | priyaḥ | agnā | bhavāti | ut | jātena | bhinadat | ut | jani-tvaiḥ