Sukta 10.45
दृशानो रुक्म उर्विया व्यद्यौद्दुर्मर्षमायुः श्रिये रुचानः । अग्निरमृतो अभवद्वयोभिर्यदेनं द्यौर्जनयत्सुरेताः ॥
दृ॒शा॒नो रु॒क्म उ॑र्वि॒या व्य॑द्यौद्दु॒र्मर्ष॒मायु॑: श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौर्ज॒नय॑त्सु॒रेता॑: ॥
dṛśānó rukmá urviyā́ vy àdyaut durmárṣam ā́yuḥ śríye rucānáḥ | agnír amṛ́to abhavad váyobhir yád enaṃ dyáur jánayat su-rétāḥ ||
Seen as a golden splendour, he has shone out widely—radiant for beauty and for an indomitable life-force. Agni became immortal by his powers of growth, when Heaven, rich in creative seed, brought him forth.
दृ॒शा॒नः । रु॒क्मः । उ॒र्वि॒या । वि । अ॒द्यौ॒त् । दुः॒ऽमर्ष॑म् । आयुः॑ । श्रि॒ये । रु॒चा॒नः । अ॒ग्निः । अ॒मृतः॑ । अ॒भ॒व॒त् । वयः॑ऽभिः । यत् । ए॒न॒म् । द्यौः । ज॒नय॑त् । सु॒ऽरेताः॑ ॥दृशानः । रुक्मः । उर्विया । वि । अद्यौत् । दुःमर्षम् । आयुः । श्रिये । रुचानः । अग्निः । अमृतः । अभवत् । वयःभिः । यत् । एनम् । द्यौः । जनयत् । सुरेताः ॥dṛśānaḥ | rukmaḥ | urviyā | vi | adyaut | duḥ-marṣam | āyuḥ | śriye | rucānaḥ | agniḥ | amṛtaḥ | abhavat | vayaḥ-bhiḥ | yat | enam | dyauḥ | janayat | su-retāḥ