Sukta 10.45
उशिक्पावको अरतिः सुमेधा मर्तेष्वग्निरमृतो नि धायि । इयर्ति धूममरुषं भरिभ्रदुच्छुक्रेण शोचिषा द्यामिनक्षन् ॥
उ॒शिक्पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्ते॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि । इय॑र्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षन् ॥
uśík-pāvákó aratíḥ su-medhā́ márteṣv agnír amṛ́to ní dhāyi | iyárti dhūmám aruṣáṃ bharíbhrad út śukréṇa śocíṣā dyā́m inakṣan ||
The eager Flame, purifying and well-guiding, the luminous intelligence, is set within mortals as the Immortal Agni. He sends upward the ruddy smoke, bearing it aloft; and with his bright blaze he reaches and touches the heaven of consciousness.
उ॒शिक् । पा॒व॒कः । अ॒र॒तिः । सु॒ऽमे॒धाः । मर्ते॑षु । अ॒ग्निः । अ॒मृतः॑ । नि । धा॒यि॒ । इय॑र्ति । धू॒मम् । अ॒रु॒षम् । भरि॑भ्रत् । उत् । शु॒क्रेण॑ । शो॒चिषा॑ । द्याम् । इन॑क्षन् ॥उशिक् । पावकः । अरतिः । सुमेधाः । मर्तेषु । अग्निः । अमृतः । नि । धायि । इयर्ति । धूमम् । अरुषम् । भरिभ्रत् । उत् । शुक्रेण । शोचिषा । द्याम् । इनक्षन् ॥uśik | pāvakaḥ | aratiḥ | su-medhāḥ | marteṣu | agniḥ | amṛtaḥ | ni | dhāyi | iyarti | dhūmam | aruṣam | bharibhrat | ut | śukreṇa | śociṣā | dyām | inakṣan