Sukta 10.45
विश्वस्य केतुर्भुवनस्य गर्भ आ रोदसी अपृणाज्जायमानः । वीळुं चिदद्रिमभिनत्परायञ्जना यदग्निमयजन्त पञ्च ॥
विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः । वी॒ळुं चि॒दद्रि॑मभिनत्परा॒यञ्जना॒ यद॒ग्निमय॑जन्त॒ पञ्च॑ ॥
víśvasya ketúr bhúvanasya gárbha ā́ rodasī apṛṇāj jā́yamānaḥ | vīḷúṃ cid ádrim abhinat parā́yan jánā yád agním áyajanta páñca ||
The beacon of all, the womb of the world, as he is born he fills the two worlds. He cleaves even the strong rock as he goes forth—when the five peoples offered sacrifice to Agni.
विश्व॑स्य । के॒तुः । भुव॑नस्य । गर्भः॑ । आ । रोद॑सी॒ इति॑ । अ॒पृ॒णा॒त् । जाय॑मानः । वी॒ळुम् । चि॒त् । अद्रि॑म् । अ॒भि॒न॒त् । प॒रा॒ऽयन् । जनाः॑ । यत् । अ॒ग्निम् । अय॑जन्त । पञ्च॑ ॥विश्वस्य । केतुः । भुवनस्य । गर्भः । आ । रोदसी इति । अपृणात् । जायमानः । वीळुम् । चित् । अद्रिम् । अभिनत् । परायन् । जनाः । यत् । अग्निम् । अयजन्त । पञ्च ॥viśvasya | ketuḥ | bhuvanasya | garbhaḥ | ā | rodasī iti | apṛṇāt | jāyamānaḥ | vīḷum | cit | adrim | abhinat | parāyan | janāḥ | yat | agni m | ayajanta | pañca