Sukta 10.45
श्रीणामुदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः । वसुः सूनुः सहसो अप्सु राजा वि भात्यग्र उषसामिधानः ॥
श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णां म॑नी॒षाणां॒ प्रार्प॑ण॒: सोम॑गोपाः । वसु॑: सू॒नुः सह॑सो अ॒प्सु राजा॒ वि भा॒त्यग्र॑ उ॒षसा॑मिधा॒नः ॥
śrīṇā́m udāró dharúṇo rayīṇā́ṃ manīṣā́ṇāṃ prā́rpaṇaḥ sómagopāḥ | vásuḥ sūnúḥ sáhaso apsú rājā́ ví bhāty ágre uṣásām idhānā́ḥ ||
He is the wide giver of splendours, the support of the riches, the forward-bearing of inspirations, the guardian of Soma. The radiant one, the son of Force, king in the waters, shines forth in front, kindled before the Dawns.
श्री॒णाम् । उ॒त्ऽआ॒रः । ध॒रुणः॑ । र॒यी॒णाम् । म॒नी॒षाणा॑म् । प्र॒ऽअर्प॑णः । सोम॑ऽगोपाः । वसुः॑ । सू॒नुः । सह॑सः । अ॒प्ऽसु । राजा॑ । वि । भा॒ति॒ । अग्रे॑ । उ॒षसा॑म् । इ॒धा॒नः ॥श्रीणाम् । उत्आरः । धरुणः । रयीणाम् । मनीषाणाम् । प्रअर्पणः । सोमगोपाः । वसुः । सूनुः । सहसः । अप्सु । राजा । वि । भाति । अग्रे । उषसाम् । इधानः ॥śrīṇām | ut-āraḥ | dharuṇaḥ | rayīṇām | manīṣāṇām | pra-arpaṇaḥ | soma-gopāḥ | vasuḥ | sūnuḥ | sahasaḥ | ap-su | rājā | vi | bhāti | agre | uṣasām | idhānaḥ