Sukta 10.45
अक्रन्ददग्निः स्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसी भानुना भात्यन्तः ॥
अक्र॑न्दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुध॑: सम॒ञ्जन् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥
ákrandad agníḥ stanáyan-n iva dyáuḥ kṣā́mā rérīhad vīrúdhaḥ samáñjan | sadyó jajñānó ví hīm iddhó ákhyad ā́ rodasī́ bhānúnā bhāty antár ||
Agni cried out like the thundering heaven; he licked the earth and clothed the plants with his touch. Born at once, kindled, he looked widely; with his beam he fills the two worlds and shines within between them.
अक्र॑न्दत् । अ॒ग्निः । स्त॒नय॑न्ऽइव । द्यौः । क्षाम॑ । रेरि॑हत् । वी॒रुधः॑ । स॒म्ऽअ॒ञ्जन् । स॒द्यः । ज॒ज्ञा॒नः । वि । हि । ई॒म् । इ॒द्धः । अख्य॑त् । आ । रोद॑सी॒ इति॑ । भा॒नुना॑ । भा॒ति॒ । अ॒न्तरिति॑ ॥अक्रन्दत् । अग्निः । स्तनयन्इव । द्यौः । क्षाम । रेरिहत् । वीरुधः । सम्अञ्जन् । सद्यः । जज्ञानः । वि । हि । ईम् । इद्धः । अख्यत् । आ । रोदसी इति । भानुना । भाति । अन्तरिति ॥akrandat | agniḥ | stanayan-iva | dyauḥ | kṣāma | rerihat | vīrudhaḥ | sam-añjan | sadyaḥ | jajñānaḥ | vi | hi | īm | iddhaḥ | akhyat | ā | rodasī iti | bhānunā | bhāti | antariti