Sukta 10.45
समुद्रे त्वा नृमणा अप्स्वन्तर्नृचक्षा ईधे दिवो अग्न ऊधन् । तृतीये त्वा रजसि तस्थिवांसमपामुपस्थे महिषा अवर्धन् ॥
स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्व१॒॑न्तर्नृ॒चक्षा॑ ईधे दि॒वो अ॑ग्न॒ ऊध॑न् । तृ॒तीये॑ त्वा॒ रज॑सि तस्थि॒वांस॑म॒पामु॒पस्थे॑ महि॒षा अ॑वर्धन् ॥
samudré tvā nṛmánā apsv àntar nṛcákṣā īdhe divó agna ū́dhan | tṛtī́ye tvā rájasi tasthivā́ṃsam apā́m upásthe mahiṣā́ avardhan ||
In the ocean-waters the human will kindles thee within; O Agni, thou art the udder of heaven, seen by the seer-sight. In the third realm of the midspace, standing firm, in the lap of the waters the great ones increase thee.
स॒मु॒द्रे । त्वा॒ । नृ॒ऽमनाः॑ । अ॒प्ऽसु । अ॒न्तः । नृ॒ऽचक्षाः॑ । ई॒धे॒ । दि॒वः । अ॒ग्ने॒ । ऊध॑न् । तृ॒तीये॑ । त्वा॒ । रज॑सि । त॒स्थि॒ऽवांस॑म् । अ॒पाम् । उ॒पऽस्थे॑ । म॒हि॒षाः । अ॒व॒र्ध॒न् ॥समुद्रे । त्वा । नृमनाः । अप्सु । अन्तः । नृचक्षाः । ईधे । दिवः । अग्ने । ऊधन् । तृतीये । त्वा । रजसि । तस्थिवांसम् । अपाम् । उपस्थे । महिषाः । अवर्धन् ॥samudre | tvā | nṛ-manāḥ | ap-su | antaḥ | nṛ-cakṣāḥ | īdhe | divaḥ | agne | ūdhan | tṛtīye | tvā | rajasi | tasthi-vāṃsam | apām | upa-sthe | mahiṣāḥ | avardhan