Sukta 10.45
विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा । विद्मा ते नाम परमं गुहा यद्विद्मा तमुत्सं यत आजगन्थ ॥
वि॒द्मा ते॑ अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ धाम॒ विभृ॑ता पुरु॒त्रा । वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुत्सं॒ यत॑ आज॒गन्थ॑ ॥
vidmá te agne tredhā́ trayā́ṇi vidmá te dhā́ma vibhṛ́tā purutrā́ | vidmá te nā́ma paramáṃ guhā́ yád vidmá tám útsaṃ yáta ājágántha ||
We know, O Agni, thy threefoldness in its three forms; we know thy abodes, distributed in many places. We know thy supreme name hidden in the secret; we know the wellspring from which thou hast come forth.
वि॒द्म । ते॒ । अ॒ग्ने॒ । त्रे॒धा । त्र॒याणि॑ । वि॒द्म । ते॒ । धाम॑ । विऽभृ॑ता । पु॒रु॒ऽत्रा । वि॒द्म । ते॒ । नाम॑ । प॒र॒मम् । गुहा॑ । यत् । वि॒द्म । तम् । उत्स॑म् । यतः॑ । आ॒ऽज॒गन्थ॑ ॥विद्म । ते । अग्ने । त्रेधा । त्रयाणि । विद्म । ते । धाम । विभृता । पुरुत्रा । विद्म । ते । नाम । परमम् । गुहा । यत् । विद्म । तम् । उत्सम् । यतः । आजगन्थ ॥vidma | te | agne | tredhā | trayāṇi | vidma | te | dhāma | vi-bhṛtā | puru-trā | vidma | te | nāma | paramam | guhā | yat | vidma | tam | utsam | yataḥ | ājagantha