Sukta 10.45
दिवस्परि प्रथमं जज्ञे अग्निरस्मद्द्वितीयं परि जातवेदाः । तृतीयमप्सु नृमणा अजस्रमिन्धान एनं जरते स्वाधीः ॥
दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद्द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः । तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एनं जरते स्वा॒धीः ॥
divás pári prathamáṃ jajñe agnír asmád dvitī́yaṃ pári jātávedāḥ | tṛtī́yam apsú nṛmánā ájasram índhāna enaṃ jarate svādhī́ḥ ||
From the heaven he is born first—Agni; from us he is born again as Jātavedas. A third time in the waters, the will of man kindles him unceasingly; the right-minded one, ever enkindling, grows him by his own mastery.
दि॒वः । परि॑ । प्र॒थ॒मम् । ज॒ज्ञे॒ । अ॒ग्निः । अ॒स्मत् । द्वि॒तीय॑म् । परि॑ । जा॒तऽवे॑दाः । तृ॒तीय॑म् । अ॒प्ऽसु । नृ॒ऽमनाः॑ । अज॑स्रम् । इन्धा॑नः । ए॒न॒म् । ज॒र॒ते॒ । सु॒ऽआ॒धीः ॥दिवः । परि । प्रथमम् । जज्ञे । अग्निः । अस्मत् । द्वितीयम् । परि । जातवेदाः । तृतीयम् । अप्सु । नृमनाः । अजस्रम् । इन्धानः । एनम् । जरते । सुआधीः ॥divaḥ | pari | prathamam | jajñe | agniḥ | asmat | dvitīyam | pari | jāta-vedāḥ | tṛtīyam | ap-su | nṛ-manāḥ | ajasram | indhānaḥ | enam | jarate | su-ādhīḥ