Sukta 10.45
त्वामग्ने यजमाना अनु द्यून्विश्वा वसु दधिरे वार्याणि । त्वया सह द्रविणमिच्छमाना व्रजं गोमन्तमुशिजो वि वव्रुः ॥
त्वाम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून्विश्वा॒ वसु॑ दधिरे॒ वार्या॑णि । त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः ॥
tvā́m agne yájamānā ánu dyū́n víśvā vásu dadhire vā́ryāṇi | tváyā sahá dráviṇam icchámānā vrajáṃ gó-mantam uśíjo ví vavruḥ ||
O Agni, the sacrificers, day after day, have placed in you all desirable riches. Seeking the plenitude of substance together with you, the seekers of the flame have opened out a luminous enclosure rich in rays of knowledge.
त्वाम् । अ॒ग्ने॒ । यज॑मानाः । अनु॑ । द्यून् । विश्वा॑ । वसु॑ । द॒धि॒रे॒ । वार्या॑णि । त्वया॑ । स॒ह । द्रवि॑णम् । इ॒च्छमा॑नाः । व्र॒जम् । गोऽम॑न्तम् । उ॒शिजः॑ । वि । व॒व्रुः॒ ॥त्वाम् । अग्ने । यजमानाः । अनु । द्यून् । विश्वा । वसु । दधिरे । वार्याणि । त्वया । सह । द्रविणम् । इच्छमानाः । व्रजम् । गोमन्तम् । उशिजः । वि । वव्रुः ॥tvām | agne | yajamānāḥ | anu | dyūn | viśvā | vasu | dadhire | vāryāṇi | tvayā | saha | draviṇam | icchamānāḥ | vrajam | go--mantam | uśijaḥ | vi | vavruḥ