Sukta 10.45
अस्ताव्यग्निर्नरां सुशेवो वैश्वानर ऋषिभिः सोमगोपाः । अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम् ॥
अस्ता॑व्य॒ग्निर्न॒रां सु॒शेवो॑ वैश्वान॒र ऋषि॑भि॒: सोम॑गोपाः । अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीर॑म् ॥
ástāvy agnír narā́ṃ su-śévo vaiśvānará ṛ́ṣibhiḥ sóma-gopāḥ | advéṣe dyā́vā-pṛthivī́ huvema devā́ dhatta rayím asmḗ su-vī́ram ||
Agni, beneficent for men, the universal Fire, has been affirmed by the seers, the guardians of Soma. In peace without hostility we call Heaven and Earth: O Gods, establish in us the rayi—spiritual plenitude—rich in heroic strength.
अस्ता॑वि । अ॒ग्निः । न॒राम् । सु॒ऽशेवः॑ । वै॒श्वा॒न॒रः । ऋषि॑ऽभिः । सोम॑ऽगोपाः । अ॒द्वे॒षे । द्यावा॑पृथि॒वी इति॑ । हु॒वे॒म॒ । देवाः॑ । ध॒त्त । र॒यिम् । अ॒स्मे इति॑ । सु॒ऽवीर॑म् ॥अस्तावि । अग्निः । नराम् । सुशेवः । वैश्वानरः । ऋषिभिः । सोमगोपाः । अद्वेषे । द्यावापृथिवी इति । हुवेम । देवाः । धत्त । रयिम् । अस्मे इति । सुवीरम् ॥astāvi | agniḥ | narām | su-śevaḥ | vaiśvānaraḥ | ṛṣi-bhiḥ | soma-gopāḥ | adveṣe | dyāvāpṛthivī iti | huvema | devāḥ | dhatta | rayim | asme iti | su-vīram