Sukta 10.44
इमं बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवञ्छफारुजः । अस्मिन्त्सु ते सवने अस्त्वोक्यं सुत इष्टौ मघवन्बोध्याभगः ॥
इ॒मं बि॑भर्मि॒ सुकृ॑तं ते अङ्कु॒शं येना॑रु॒जासि॑ मघवञ्छफा॒रुज॑: । अ॒स्मिन्त्सु ते॒ सव॑ने अस्त्वो॒क्यं॑ सु॒त इ॒ष्टौ म॑घवन्बो॒ध्याभ॑गः ॥
imáṃ bibharmi súkṛtaṃ te aṅkuśáṃ yéna ārujā́si maghavan śaphā́rujaḥ | asmín tsu te sávane astv okyàṃ sutá iṣṭáu maghavan bodhy ā́bhagaḥ ||
I bear for thee this well-fashioned goad by which, O bounteous one, thou breakest open the hoof-fastness. In this thy pressing may there be a homeward nearness; in the offered Soma and the desired rite, O Maghavan, awaken as the dispenser of the portion.
इ॒मम् । बि॒भ॒र्मि॒ । सुऽकृ॑तम् । ते॒ । अ॒ङ्कु॒शम् । येन॑ । आ॒ऽरु॒जासि॑ । म॒घ॒ऽव॒न् । श॒फ॒ऽआ॒रुजः॑ । अ॒स्मिन् । सु । ते॒ । सव॑ने । अ॒स्तु॒ । ओ॒क्य॑म् । सु॒ते । इ॒ष्टौ । म॒घ॒ऽव॒न् । बो॒धि॒ । आऽभ॑गः ॥इमम् । बिभर्मि । सुकृतम् । ते । अङ्कुशम् । येन । आरुजासि । मघवन् । शफआरुजः । अस्मिन् । सु । ते । सवने । अस्तु । ओक्यम् । सुते । इष्टौ । मघवन् । बोधि । आभगः ॥imam | bibharmi | su-kṛtam | te | aṅkuśam | yena | ārujāsi | magha-van | śapha-ārujaḥ | asmin | su | te | savane | astu | okyam | sute | iṣṭau | magha-van | bodhi | ābhagaḥ