Sukta 10.44
गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् । वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥
गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म् । व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥
góbhis tarémā́matim durévāṃ yávena kṣúdhaṃ puruhūta víśvām | vayáṃ rājábhiḥ prathamā́ dhánāny asmā́kena vṛjánenā́ jayema ||
By the rays of Light may we cross beyond the crooked insufficiency; by the grain of plenitude may we conquer every hunger. May we, with the kingly powers, win the foremost riches; by our own ordered host of energies may we prevail.
गोभिः॑ । त॒रे॒म॒ । अम॑तिम् । दुः॒ऽएवा॑म् । यवे॑न । क्षुध॑म् । पु॒रु॒ऽहू॒त॒ । विश्वा॑म् । व॒यम् । राज॑ऽभिः । प्र॒थ॒मा । धना॑नि । अ॒स्माके॑न । वृ॒जने॑न । ज॒ये॒म॒ ॥गोभिः । तरेम । अमतिम् । दुःएवाम् । यवेन । क्षुधम् । पुरुहूत । विश्वाम् । वयम् । राजभिः । प्रथमा । धनानि । अस्माकेन । वृजनेन । जयेम ॥gobhiḥ | tarema | amatim | duḥ-evām | yavena | kṣudham | puru-hūta | viśvām | vayam | rāja-bhiḥ | prathamā | dhanāni | asmākena | vṛjanena | jayema