Sukta 10.44
गिरीँरज्रान्रेजमानाँ अधारयद्द्यौः क्रन्ददन्तरिक्षाणि कोपयत् । समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥
गि॒रीँरज्रा॒न्रेज॑मानाँ अधारय॒द्द्यौः क्र॑न्दद॒न्तरि॑क्षाणि कोपयत् । स॒मी॒ची॒ने धि॒षणे॒ वि ष्क॑भायति॒ वृष्ण॑: पी॒त्वा मद॑ उ॒क्थानि॑ शंसति ॥
girī́ṁr ajrā́n rejámānāṁ adhārayad dyáuḥ krándad antárikṣāṇi kopayat | samīcīné dhiṣáṇe ví ṣkabhāyati vṛ́ṣṇaḥ pītvā́ máda ukthā́ni śaṃsati ||
He upheld the trembling mountains and the quivering ridges; Heaven itself cried out and the mid-regions were stirred into tumult. In the harmonised twin powers of inspiration he establishes a wide firm support; the Bull, having drunk the ecstasy, proclaims the hymns of the Word.
गि॒रीन् । अज्रा॑न् । रेज॑मानान् । अ॒धा॒र॒य॒त् । द्यौः । क्र॒न्द॒त् । अ॒न्तरि॑क्षाणि । को॒प॒य॒त् । स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने । धि॒षणे॒ इति॑ । वि । स्क॒भा॒य॒ति॒ । वृष्णः॑ । पी॒त्वा । मदे॑ । उ॒क्थानि॑ । शं॒स॒ति॒ ॥गिरीन् । अज्रान् । रेजमानान् । अधारयत् । द्यौः । क्रन्दत् । अन्तरिक्षाणि । कोपयत् । समीचीने इति सम्ईचीने । धिषणे इति । वि । स्कभायति । वृष्णः । पीत्वा । मदे । उक्थानि । शंसति ॥girīn | ajrān | rejamānān | adhārayat | dyauḥ | krandat | antarikṣāṇi | kopayat | samīcīne itisam-īcīne | dhiṣaṇeiti | vi | skabhāyati | vṛṣṇaḥ | pītvā | made | ukthāni | śaṃsati