Sukta 10.44
एवैवापागपरे सन्तु दूढ्योऽश्वा येषां दुर्युज आयुयुज्रे । इत्था ये प्रागुपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥
ए॒वैवापा॒गप॑रे सन्तु दू॒ढ्योऽश्वा॒ येषां॑ दु॒र्युज॑ आयुयु॒ज्रे । इ॒त्था ये प्रागुप॑रे॒ सन्ति॑ दा॒वने॑ पु॒रूणि॒ यत्र॑ व॒युना॑नि॒ भोज॑ना ॥
eváivāpā́g ápare santu dūḍhyò 'śvā yéṣāṃ duryúja āyuyujré | itthā́ yé prā́g upáre sánti dā́vane purū́ṇi yátra vayúnāni bhójanā ||
So indeed let the others be left behind and pressed down—those whose horses are ill-yoked and cannot be harnessed rightly. But those who are in front and higher, they are for giving many gifts, where the ordered discernments are the enjoyments.
ए॒व । ए॒व । अपा॑क् । अप॑रे । स॒न्तु॒ । दुः॒ऽध्यः॑ । अश्वाः॑ । येषा॑म् । दुः॒ऽयुजः॑ । आ॒ऽयु॒यु॒ज्रे । इ॒त्था । ये । प्राक् । उप॑रे । सन्ति॑ । दा॒वने॑ । पु॒रूणि॑ । यत्र॑ । व॒युना॑नि । भोज॑ना ॥एव । एव । अपाक् । अपरे । सन्तु । दुःध्यः । अश्वाः । येषाम् । दुःयुजः । आयुयुज्रे । इत्था । ये । प्राक् । उपरे । सन्ति । दावने । पुरूणि । यत्र । वयुनानि । भोजना ॥eva | eva | apāk | apare | santu | duḥ-dhyaḥ | aśvāḥ | yeṣām | duḥ-yujaḥ | āyuyujre | itthā | ye | prāk | upare | santi | dāvane | purūṇi | yatra | vayunāni | bhojanā