Sukta 10.44
पृथक्प्रायन्प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा । न ये शेकुर्यज्ञियां नावमारुहमीर्मैव ते न्यविशन्त केपयः ॥
पृथ॒क्प्राय॑न्प्रथ॒मा दे॒वहू॑त॒योऽकृ॑ण्वत श्रव॒स्या॑नि दु॒ष्टरा॑ । न ये शे॒कुर्य॒ज्ञियां॒ नाव॑मा॒रुह॑मी॒र्मैव ते न्य॑विशन्त॒ केप॑यः ॥
pṛthák prā́yan prathamā́ devá-hūtayo 'kṛṇvata śravasyā́ni duṣṭárā | ná ye śékury yajñíyāṃ nā́vam ā́ruham ī́rmā́iva te ny àviśanta képayāḥ ||
Separately they went forth—the first who were called by the gods—and they accomplished deeds of glory hard to pass. But those who could not mount the sacrificial boat, those weak in impulse, sank down and entered the flood below.
पृथ॑क् । प्र । आ॒य॒न् । प्र॒थ॒माः । दे॒वऽहू॑तयः । अकृ॑ण्वत । श्र॒व॒स्या॑नि । दु॒स्तरा॑ । न । ये । शे॒कुः । य॒ज्ञिया॑म् । नाव॑म् । आ॒ऽरुह॑म् । ई॒र्मा । ए॒व । ते । नि । अ॒वि॒श॒न्त॒ । केप॑यः ॥पृथक् । प्र । आयन् । प्रथमाः । देवहूतयः । अकृण्वत । श्रवस्यानि । दुस्तरा । न । ये । शेकुः । यज्ञियाम् । नावम् । आरुहम् । ईर्मा । एव । ते । नि । अविशन्त । केपयः ॥pṛthak | pra | āyan | prathamāḥ | deva-hūtayaḥ | akṛṇvata | śravasyāni | dustarā | na | ye | śekuḥ | yajñiyām | nāvam | āruham | īrmā | eva | te | ni | aviśanta | kepayaḥ