Sukta 10.44
गमन्नस्मे वसून्या हि शंसिषं स्वाशिषं भरमा याहि सोमिनः । त्वमीशिषे सास्मिन्ना सत्सि बर्हिष्यनाधृष्या तव पात्राणि धर्मणा ॥
गम॑न्न॒स्मे वसू॒न्या हि शंसि॑षं स्वा॒शिषं॒ भर॒मा या॑हि सो॒मिन॑: । त्वमी॑शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृ॒ष्या तव॒ पात्रा॑णि॒ धर्म॑णा ॥
gámann asmē vasū́ny ā́ hí śáṃsiṣaṃ svā́śiṣaṃ bháramā yāhi somínaḥ | tvám ī́śiṣe sā́sminn ā́ satsi barhíṣy anādhṛ́ṣyā táva pā́trāṇi dhármaṇā ||
Come to us with the riches, for you are the one we invoke; bring your own benediction, come to the soma-pressers. You have mastery; sit here upon the sacred seat: unassailable are your vessels by the right law.
गम॑न् । अ॒स्मे इति॑ । वसू॑नि । आ । हि । शंसि॑षम् । सु॒ऽआ॒शिष॑म् । भर॑म् । आ । या॒हि॒ । सो॒मिनः॑ । त्वम् । ई॒शि॒षे॒ । सः । अ॒स्मिन् । आ । स॒त्सि॒ । ब॒र्हिषि॑ । अ॒ना॒धृ॒ष्या । तव॑ । पात्रा॑णि । धर्म॑णा ॥गमन् । अस्मे इति । वसूनि । आ । हि । शंसिषम् । सुआशिषम् । भरम् । आ । याहि । सोमिनः । त्वम् । ईशिषे । सः । अस्मिन् । आ । सत्सि । बर्हिषि । अनाधृष्या । तव । पात्राणि । धर्मणा ॥gaman | asme iti | vasūni | ā | hi | śaṃsiṣam | su-āśiṣam | bharam | ā | yāhi | sominaḥ | tvam | īśiṣe | saḥ | asmin | ā | satsi | barhiṣi | anādhṛṣyā | tava | pātrāṇi | dharmaṇā