Sukta 10.44
एवा पतिं द्रोणसाचं सचेतसमूर्जः स्कम्भं धरुण आ वृषायसे । ओजः कृष्व सं गृभाय त्वे अप्यसो यथा केनिपानामिनो वृधे ॥
ए॒वा पतिं॑ द्रोण॒साचं॒ सचे॑तसमू॒र्जः स्क॒म्भं ध॒रुण॒ आ वृ॑षायसे । ओज॑: कृष्व॒ सं गृ॑भाय॒ त्वे अप्यसो॒ यथा॑ केनि॒पाना॑मि॒नो वृ॒धे ॥
evā́ pátiṃ droṇa-sā́caṃ sá-cetasam ūrjáḥ skámbhaṃ dháruṇa ā́ vṛṣāyase | ójaḥ kṛṣva sáṃ gṛbhāya tvé ápy aso yáthā kenipā́nām inó vṛ́dhe ||
Thus you grow into the lord who holds the soma-vat, the conscious one, the pillar of the plenitude, the support in the foundation. Fashion strength; gather it together within yourself, so that you may be the impelling master for the increase of the drinkers.
ए॒व । पति॑म् । द्रो॒ण॒ऽसाच॑म् । सऽचे॑तसम् । ऊ॒र्जः । स्क॒म्भम् । ध॒रुणे॑ । आ । वृ॒ष॒ऽय॒से॒ । ओजः॑ । कृ॒ष्व॒ । सम् । गृ॒भा॒य॒ । त्वे इति॑ । अपि॑ । असः॑ । यथा॑ । के॒ऽनि॒पाना॑म् । इ॒नः । वृ॒धे ॥एव । पतिम् । द्रोणसाचम् । सचेतसम् । ऊर्जः । स्कम्भम् । धरुणे । आ । वृषयसे । ओजः । कृष्व । सम् । गृभाय । त्वे इति । अपि । असः । यथा । केनिपानाम् । इनः । वृधे ॥eva | patim | droṇa-sācam | sa-cetasam | ūrjaḥ | skambham | dharuṇe | ā | vṛṣa-yase | ojaḥ | kṛṣva | sam | gṛbhāya | tve iti | api | asaḥ | yathā | ke--nipānām | inaḥ | vṛdhe