Sukta 10.44
एन्द्रवाहो नृपतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम् । प्रत्वक्षसं वृषभं सत्यशुष्ममेमस्मत्रा सधमादो वहन्तु ॥
एन्द्र॒वाहो॑ नृ॒पतिं॒ वज्र॑बाहुमु॒ग्रमु॒ग्रास॑स्तवि॒षास॑ एनम् । प्रत्व॑क्षसं वृष॒भं स॒त्यशु॑ष्म॒मेम॑स्म॒त्रा स॑ध॒मादो॑ वहन्तु ॥
éndra-vāho nṛ-pátiṃ vájra-bāhum ugrám ugrā́sas taviṣā́sa enam | prá-tvakṣasaṃ vṛṣabháṃ satyá-śuṣmam émam asmatrā́ sadha-mā́do vahantu ||
O bearers of Indra, bring here the lord of men with the thunderbolt in his arm—fierce, and borne by the fierce and the strong: the forward-growing Bull, whose true force is sure; let the comrades of the common delight carry him to us here.
आ । इ॒न्द्र॒ऽवाहः॑ । नृ॒ऽपति॑म् । वज्र॑ऽबाहुम् । उ॒ग्रम् । उ॒ग्रासः॑ । त॒वि॒षासः॑ । ए॒न॒म् । प्रऽत्व॑क्षसम् । वृ॒ष॒भम् । स॒त्यऽशु॑ष्मम् । आ । ई॒म् । अ॒स्म॒ऽत्रा । स॒ध॒ऽमादः॑ । व॒ह॒न्तु॒ ॥आ । इन्द्रवाहः । नृपतिम् । वज्रबाहुम् । उग्रम् । उग्रासः । तविषासः । एनम् । प्रत्वक्षसम् । वृषभम् । सत्यशुष्मम् । आ । ईम् । अस्मत्रा । सधमादः । वहन्तु ॥ā | indra-vāhaḥ | nṛ-patim | vajra-bāhum | ugram | ugrāsaḥ | taviṣāsaḥ | enam | pra-tvakṣasam | vṛṣabham | satya-śuṣmam | ā | īm | asma-trā | sadha-mādaḥ | vahantu