Sukta 10.44
सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ । शीभं राजन्त्सुपथा याह्यर्वाङ्वर्धाम ते पपुषो वृष्ण्यानि ॥
सु॒ष्ठामा॒ रथ॑: सु॒यमा॒ हरी॑ ते मि॒म्यक्ष॒ वज्रो॑ नृपते॒ गभ॑स्तौ । शीभं॑ राजन्त्सु॒पथा या॑ह्य॒र्वाङ्वर्धा॑म ते प॒पुषो॒ वृष्ण्या॑नि ॥
suṣṭhāmā́ ráthaḥ su-yámā hárī te mimyákṣa vájro nṛpate gábhastau | śībháṃ rājann su-páthā yāhy arvā́ṅ vardhā́ma te papúṣo vṛ́ṣṇyāni ||
Well-founded is your chariot, well-guided your two steeds; your thunderbolt is set firm in your grasp, O lord of men. Come swiftly, O king, by the good paths toward us; we increase your heroic powers as you drink.
सु॒ऽस्थामा॑ । रथः॑ । सु॒ऽयमा॑ । हरी॒ इति॑ । ते॒ । मि॒म्यक्ष॑ । वज्रः॑ । नृ॒ऽप॒ते॒ । गभ॑स्तौ । शीभ॑म् । रा॒ज॒न् । सु॒ऽपथा॑ । आ । या॒हि॒ । अ॒र्वाङ् । वर्धा॑म । ते॒ । प॒पुषः॑ । वृष्ण्या॑नि ॥सुस्थामा । रथः । सुयमा । हरी इति । ते । मिम्यक्ष । वज्रः । नृपते । गभस्तौ । शीभम् । राजन् । सुपथा । आ । याहि । अर्वाङ् । वर्धाम । ते । पपुषः । वृष्ण्यानि ॥su-sthāmā | rathaḥ | su-yamā | harī iti | te | mimyakṣa | vajraḥ | nṛ-pate | gabhastau | śībham | rājan | su-pathā | ā | yāhi | arvāṅ | vardhāma | te | papuṣaḥ | vṛṣṇyāni